श्रीसीतारामाष्टकम्

श्रीसीतारामाष्टकम्

ब्रह्ममहेन्द्रसुरेन्द्रमरुद्गणरुद्रमुनीन्द्रगणैरतिरम्यं, 
क्षीरसरित्पतितीरमुपेत्य नुतं हि सतामवितारमुदारम् ।

भूमिभरप्रशमार्थमथ प्रथितप्रकटीकृतचिद्घनमूर्तिं,
त्वां भजतो रघुनन्दन देहि दयाघन मे स्वपदाम्बुजदास्यम् ॥ १ ॥

पद्मदलायतलोचन हे रघुवंशविभूषण देव दयालो,
निर्मलनीरदनीलतनोऽखिललोकहृदम्बुजभासक भानो ।

कोमलगात्र पवित्रपदाब्जरजःकणपावितगौतमकान्त,
त्वां भजतो रघुनन्दन देहि दयाघन मे स्वपदाम्बुजदास्यम् ॥ २ ॥
पूर्ण परात्पर पालय मामतिदीनमनाथमनन्तसुखाब्धे,
प्रावृडदभ्रतडित्सुमनोहरपीतवराम्बर राम नमस्ते ।

कामविभञ्जन कान्ततरानन काञ्चनभूषण रत्नकिरीट, 
त्वां भजतो रघुनन्दन देहि दयाघन मे स्वपदाम्बुजदास्यम् ॥ ३ ॥

दिव्यशरच्छशिकान्तिहरोज्ज्वलमौक्तिकमालविशालसुमौले,
कोटिरविप्रभ चारुचरित्रपवित्र विचित्रधनुःशरपाणे ।

चण्डमहाभुजदण्डविखण्डितराक्षसराजमहागजदण्डं,
त्वां भजतो रघुनन्दन देहि दयाघन मे स्वपदाम्बुजदास्यम् ॥ ४ ॥

दोषविहिंस्रभुजङ्गसहस्रसुरोषमहानलकीलकलापे, 
जन्मजरामरणोर्मिभये मदमन्मथनक्रविचक्रभवाब्धौ ।

दुःखनिधौ च चिरं पतितं कृपयाद्य समुद्धर राम ततो माम्,
त्वां भजतो रघुनन्दन देहि दयाघन मे स्वपदाम्बुजदास्यम् ॥ ५ ॥
संसृतिघोरमदोत्कटकुञ्जर तृट्क्षुदनीरदपिण्डिततुण्डं,
दण्डकरोन्मथितं च रजस्तम‌उन्मदमोहपदोज्झितमार्तम् ।

दीनमनन्यगतिं कृपणं शरणागतमाशु विमोचय मूढम्,
त्वां भजतो रघुनन्दन देहि दयाघन मे स्वपदाम्बुजदास्यम् ॥ ६ ॥

जन्मशतार्जितपापसमन्वितहृत्कमले पतिते पशुकल्पे,
हे रघुवीर महारणधीर दयां कुरु मय्यतिमन्दमनीषे ।

त्वं जननी भगिनी च पिता मम तावदसि त्ववितापि कृपालो,
त्वां भजतो रघुनन्दन देहि दयाघन मे स्वपदाम्बुजदास्यम् ॥ ७ ॥
त्वां तु दयालुमकिञ्चनवत्सलमुत्पलहारमपारमुदारं,
राम विहाय कमन्यमनामयमीश जनं शरणं ननु यायाम् ।

त्वत्पदपद्ममतः श्रितमेव मुदा खलु देव सदैव ससीत,
त्वां भजतो रघुनन्दन देहि दयाघन मे स्वपदाम्बुजदास्यम् ॥ ८ ॥

यः करुणामृतसिन्धुरनाथजनोत्तमबन्धुरजोत्तमकारी,
भक्तभयोर्मिभवाब्धितरिः सरयूतटिनीतटचारुविहारी ।

तस्य रघुप्रवरस्य निरन्तरमष्टकमेतदनिष्टहरं वै,
यस्तु पठेदमरः स नरो लभतेऽच्युतरामपदाम्बुजदास्यम् ॥ ९ ॥